महाकविकालिदासविरचिता कुमारसंभवमहाकाव्ये गुणवादस्य समीक्षा पर्यालोचनम्

Authors

  • Smt. Soma Mishra Author

Keywords:

माधुर्यगुणस्य, ओजगुणस्य, प्रसादागुणस्य, रसभावानस्य, सार्वभौमकाव्यशिल्पस्य।

Abstract

गुण्यते, मन्त्र्यते, मन्त्रणादिभिः निश्चीयते इति गुणः। अर्थात् ‘गुण्’ धातोः ‘मन्त्रणे’ अर्थे यण्-प्रत्ययेन गुणशब्दः निष्पद्यते। पाणिनिना स्वीयाष्टाध्याय्यां गुणः संज्ञात्वेन स्वीकृतः। साहित्यशास्त्रस्य गुणाः माधुर्यादयः इति कथ्यन्ते। भामहेन माधुर्य-ओजः-प्रसादाख्याः गुणाः उल्लिखिताः। श्रवणमधुरशब्दप्रयोगः लघुसमासाश्च माधुर्यगुणं व्यञ्जयन्ति। कर्णकटुशब्दप्रयोगः दीर्घसमासयुक्तपदानि च ओजोगुणः। काव्यपठनमात्रेण शीघ्रार्थप्रतिपत्तिः समासाभावश्च प्रसादगुणः।

महाकविकालिदासविरचिते कुमारसम्भवमहाकाव्ये गुणवादस्य समीक्षायां प्राचीनभारतीयचिन्तकैः षष्टिः गुणाः राजनीतिक्षेत्रे चर्चिताः, किन्तु काव्यशास्त्रे मम्मटभट्टाद्याचार्यैः माधुर्य-ओजः-प्रसादाख्याः त्रय एव गुणाः प्रधानतया स्वीकृताः। पण्डितराजजगन्नाथमते द्रुत्यादिचित्तवृत्तयः एव गुणाः, याः रसकार्यरूपाः सन्ति। कालिदासः स्वकाव्ये श्रव्यत्वं, श्रुतिसुखदत्वं, समतां, माधुर्यं च निश्चितगुणरूपेण स्वीकरोति।

माधुर्यगुणस्य व्यञ्जिका रचना टवर्गवर्जिता, मृदुवर्णबहुला, असमासा वा भवति। तस्योदाहरणं षष्ठसर्गे (1/6) ‘अध्यापितस्योशनसापि नीतिम्’ इत्यत्र दृश्यते। ओजोगुणस्य व्यञ्जिका रचना टवर्गबहुला, दीर्घसमासात्मिका, वीररसप्रधाना च। तस्योदाहरणं प्रथमसर्गे (1/1) ‘अस्त्युत्तरस्यां दिशि देवतात्मा’ इति श्लोकः। प्रसादगुणः सर्वसाधारणः, यत्र श्रवणमात्रेणार्थबोधः स्पष्टो भवति। तस्योदाहरणं प्रथमसर्गे (1/9) ‘प्रसीद विश्राम्यतु वीर वज्र’ इत्यत्र तथा द्वितीयसर्गे (2/2) ‘अवधानपरे चकार सा’ इत्यत्र चोपलभ्यते।

महाकविकालिदासविरचिते कुमारसम्भवमहाकाव्ये गुणानां प्रयोगः काव्यशास्त्रीयपरम्परानुगुणम् अत्यन्तं स्वाभाविकः कलात्मकश्च अस्ति। कवेः शैल्यां माधुर्य-ओजः-प्रसादानां त्रयाणामपि गुणानां रसभावानुकूलं सन्निवेशं कृत्वा काव्यस्य आन्तरङ्गिकशोभा द्विगुणिता कृता अस्ति, यत् कालिदासस्य सार्वभौमकाव्यशिल्पस्य परिचायकम्।

Author Biography

  • Smt. Soma Mishra

    Research Scholar, RKDF University, Ranchi

Downloads

Published

17-06-2026

Issue

Section

Articles

How to Cite

महाकविकालिदासविरचिता कुमारसंभवमहाकाव्ये गुणवादस्य समीक्षा पर्यालोचनम्. (2026). Siddhanta’s International Journal of Advanced Research in Arts & Humanities, 106-112. https://sijarah.com/index.php/sijarah/article/view/295

Similar Articles

51-60 of 101

You may also start an advanced similarity search for this article.