पदकृत्यकारमते तर्कसंग्रहस्य प्रत्यक्षलक्षणार्थविचारः
Keywords:
अनुभवः, यथार्थानुभवः, प्रत्यक्षप्रमाणम्, प्रत्यक्षप्रमा, इन्द्रियार्थसन्निकर्षःAbstract
न्यायवैशेषिकदर्शनयोः प्रकरणग्रन्थः तर्कसंग्रहः। तर्कसंग्रहकारेण अन्नंभट्टेन यथार्थानुभवं विभजते प्रत्यक्षाऽनुमित्युपमितिशाब्दाश्चेति।– “यथार्थानुभवश्चतुर्विधः- प्रत्यक्षानुमित्युपमितिशाब्दभेदात्।” प्रत्यक्षादिचतुर्विधप्रमायाः करणमपि तेन चतुर्विधं स्वीकृतम्- प्रत्यक्षाऽनुमानोपमानशब्दाश्चेति। तत्करणमपि चतुर्विधम्-प्रत्यक्षाऽनुमानोपमानशब्दश्चेति। प्रमायाः करणरूपेण प्रमाणं स्वीकृतम्। अतः अत्र प्रमाणं चतुर्विधं यथा-प्रत्यक्षप्रमाणम् अनुमानप्रमाणम् उपमानप्रमाणं शब्दप्रमाणञ्च। तर्कसंग्रहग्रन्थस्य अनेकाः टीकाः अधुना परिदृश्यन्ते। तासाम् अन्यतमा दीपिकाटीका। दीपिका अन्नंभट्टेन रचिता। तर्कसंग्रहस्य ‘पदकृत्य’ नाम एका विख्याता टीका उपलभ्यते। पदकृत्य इत्याख्यायाः टीकायाः कर्ता उरुदत्तसिंहशिष्यश्रीचन्द्रजसिंहः। चन्द्रजसिंहस्य नामान्तरं बुधसिंहः इति प्राप्यते। तर्कसंग्रहग्रन्थस्य आलोचनायां अन्नंभट्टेन अस्य ग्रन्थस्य विषयः सरलरूपेण व्याख्यार्थं दीपिकाटिका रचितः। परन्तु अनेकाः विषयाः दीपिकाटीकायां न परिस्कृताः। पदकृत्यटीकायां तर्कसंग्रहे उल्लिखितानां पदानां कानि प्रयोजनानि, तथा च उल्लिखितानां पदानाम् अभावे का दोषाः जायन्ते इत्यस्य विचारः सरलरुपेण प्राप्यते।
दीपिकाटीकायां अनुल्लिखितानां विषयानां व्याख्यानमपि पदकृत्यटीकायां परिदृश्यते। आदौ तर्कसंग्रहकारेण यथार्थानुभं विभज्य तत्परं प्रमाणस्य भेदाः उल्लिखिताः। अतः आदौ प्रमासु प्रत्यक्षप्रमायाः लक्षणं वक्तव्यम्। परन्तु अन्नंभट्टेन प्रत्यक्षप्रमायाः लक्षणं न कृत्वा आदौ प्रत्यक्षप्रमाणस्य लक्षणं कृतम्-“तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्”। अतः जिज्ञासा जायते कथं तेन प्रत्यक्षप्रमायाः लक्षणं विहाय प्रत्यक्षप्रमाणलक्षणं कृतम् इत्यस्य विचारः पदकृत्यटीकानुसारेण शोधपत्रे आलोचितम्। अत्र प्रमाणस्य नाम ‘प्रत्यक्षम्’, प्रमापि ‘प्रत्यक्षम्’। अतः प्रत्यक्षप्रमालक्षणे तथा च प्रत्यक्षप्रमाणलक्षणे उल्लिखितानां पदानां प्रयोगः कथं अन्नंभट्टेन कृतः तत् विचार्य्यम्। दीपिकाटीकायां अस्य विचारः स्पष्टरूपेण न उल्लिखितम्। पदकृत्यटीकायां विषयोऽयम् आलोचितः। प्रत्यक्षप्रमायाः लक्षणानुसारेण इन्द्रियार्थसम्बन्धेन प्रत्यक्षज्ञानं जायते। अत्र प्रक्रिया भवति आत्मा मनसा संयुज्यते। पुनः मनः इन्द्रियेण संयुज्यते। तत्परम् इन्द्रियम् अर्थेन संयुज्यते। अनेन प्रकारेण प्रत्यक्षज्ञानमुत्पद्यते। अनेन ज्ञायते प्रत्यक्षज्ञाने इन्द्रियार्थयोः कोऽपि विषयो न विद्यते। परन्तु उपनेत्रसहायेन यदा चाक्षुषप्रत्यक्षज्ञानं जायते तदा चक्षुरिन्द्रियार्थयोः उपनेत्रं विद्यते। अतः अत्र इन्द्रियार्थयोः मध्ये उपनेत्रं विद्यते। इन्द्रियार्थसन्निकर्षभावात् प्रत्यक्षलक्षणं चाक्षुषप्रत्यक्षे प्रयुक्तं न भवति। प्रत्यक्षलक्षणे अव्याप्तिदोषः जायते। अयं दोषः दूरीकरणाय पदकृत्यकारेण किं भणितम् इति शोधपत्रे मया आलोचितम्। दर्पणे मुखप्रत्यक्षे प्रत्यक्षलक्षणं प्रयुक्तं भवति न वा इति समस्यायाः समाधानं पदकृत्यकारेण केनोपायेन कृतं तस्य विचार मया उल्लिखितम् शोधपत्रे। उल्लिखिताः विषयाः पर्यालोचनाय मया प्रत्यक्षशब्दमवलम्व्य शोधपत्रं रचितम्- ‘पदकृत्यकारमते तर्कसंग्रहस्य प्रत्यक्षलक्षणार्थविचारः।’
Published
Issue
Section
License
Copyright (c) 2024 Siddhanta's International Journal of Advanced Research in Arts & Humanities

This work is licensed under a Creative Commons Attribution-NonCommercial-NoDerivatives 4.0 International License.