काव्यभेदपरम्परा

Authors

  • डॉ शुभो वनिक् Author

Keywords:

संस्कृतवाङ्मयम्, काव्यशास्त्रम्, काव्यभेदपरम्परा, दृश्यकाव्यम्, श्रव्यकाव्यम्, रूपकम्, उपरूपकम्, गद्यकाव्यम्, पद्यकाव्यम्, मिश्रकाव्यम्, महाकाव्यम्, खण्डकाव्यम्, मुक्तककाव्यम्, आख्यायिका, कथा, रसात्मकता, भोजराजः, दण्डी, मम्मटः, विश्वनाथः

Abstract

संस्कृतकाव्यशास्त्रे काव्यस्वरूपनिर्णयस्य समानान्तरं काव्यभेदनिरूपणमपि अत्यन्तमहत्त्वपूर्णं विषयम् अस्ति। विभिन्नाचार्यैः स्वस्वदृष्टिकोणानुसारं काव्यस्य विविधाः भेदाः प्रतिपादिताः, येषां मध्ये इन्द्रियग्राह्यता, शैली, भाषा, विषयवस्तु, रचना-विन्यासः तथा रसात्मकता इत्यादयः प्रमुखाः आधाराः सन्ति। सर्वप्रथमं दृश्यत्वश्रव्यत्वभेदेन काव्यं द्विधा विभक्तम्—दृश्यकाव्यं तथा श्रव्यकाव्यम्। अभिनयरूपेण रंगमञ्चे प्रस्तुतं काव्यं दृश्यकाव्यं, तस्य प्रमुखभेदौ रूपकम् उपरूपकं चेति; श्रवणयोग्यं गद्यपद्यात्मकं साहित्यं श्रव्यकाव्यम् इति व्यवह्रियते।

श्रव्यकाव्यस्य पुनः अर्थरमणीयतायाः आधारेण उत्तम, मध्यम, अवर इति त्रिविधो भेदः निर्दिष्टः। भोजराजेन वर्ण्यवस्त्वाधारेण काव्यं, शास्त्रं, इतिहासः, काव्यशास्त्रम्, काव्येतिहासः, शास्त्रेतिहासश्च इति षड्विधं वर्गीकरणं कृतम्। भाषाभेदेन संस्कृत, प्राकृत, अपभ्रंश इति त्रिविधता स्वीकृता, किन्तु एतत् वर्गीकरणं तुलनात्मकदृष्ट्या स्थूलमेव मन्यते।

शैलीदृष्ट्या गद्य, पद्य, मिश्र इति त्रिविधः काव्यभेदः विशेषतया दण्डिना, वाग्भटेन च प्रतिपादितः। गद्यकाव्यस्य कथा, आख्यायिका इत्यादयः भेदाः, पद्यकाव्यस्य च प्रबन्ध तथा मुक्तक इति द्विविधः विभागः प्रसिद्धः। प्रबन्धकाव्ये महाकाव्यं खण्डकाव्यं चेति द्वौ प्रमुखौ प्रकारौ, यत्र महाकाव्यं विस्तीर्णकथानकयुक्तं, रसप्रधानं, सर्गबद्धं च भवति। मुक्तककाव्ये प्रत्येकं पद्यं स्वतन्त्रं पूर्णार्थं च भवति। छन्दःसंख्याधारेण मुक्तक, युग्मक, संदानितक, कलापक, कुलक इत्यादयः उपभेदाः प्रतिपादिताः।

एवं दृश्यते यत् संस्कृतवाङ्मये काव्यभेदपरम्परा अत्यन्तसमृद्धा, बहुआयामी च अस्ति। विभिन्नाचार्याणां मतभेदाः केवलं सिद्धान्तवैचित्र्यं न प्रकाशयन्ति, अपितु भारतीयकाव्यशास्त्रस्य गाम्भीर्यं, सूक्ष्मता, तथा व्यापकदृष्टिं च प्रतिपादयन्ति। अतः काव्यभेदपरम्पराया अध्ययनं संस्कृतसाहित्यस्य सैद्धान्तिकाधारबोधाय अत्यावश्यकम्।

Author Biography

  • डॉ शुभो वनिक्

    भूतपूर्वः गवेषकः, राष्ट्रियसंस्कृतविश्वविद्यालयः, साहित्यविभाग:, तिरुपतिः

Downloads

Published

26-01-2026

How to Cite

काव्यभेदपरम्परा. (2026). Siddhanta’s International Journal of Advanced Research in Arts & Humanities, 146-154. https://sijarah.com/index.php/sijarah/article/view/265

Similar Articles

31-40 of 94

You may also start an advanced similarity search for this article.