शैक्षणिकदृष्ट्या चम्पूकाव्यस्य मूल्याङ्कनम्

Authors

  • डॉ. बिकाशमण्डलः Author

Keywords:

चम्पूकाव्यं, शिक्षाशास्त्रं, वैदिककालः, गुरुकुलं, स्त्रीशिक्षा

Abstract

भारतीयसाहित्यपरम्परायां चम्पूकाव्यमेकमद्वितीयं साहित्यविधानं, विशिष्टं च स्थानमस्ति, यत्र पद्यगद्ययोः सुन्दरं संमिश्रणं दृश्यते। पद्यानि रसभावपूरितानि, गद्यं तु प्रसङ्गानुसारी विस्तीर्णवर्णनप्रधानमेवमेव चम्पूकाव्यानि काव्यशक्तिप्रबन्धशक्त्योः समुच्चयस्वरूपेण सुविख्याता भवन्ति। यद्यपि काव्येष्वानन्दवर्धनः, मम्मटः, वामनादीनां काव्यशास्त्रीयविचाराः मूलभूताः, तथापि शिक्षाव्यवस्थायाः अर्थात् शिक्षणपद्धतेः, संस्कारनिर्माणस्य, सामाजिकनैतिकशिक्षायाश्च प्रतिफलनमेतेषु चम्पूकाव्येषु स्पष्टम् दृश्यते।

भारतीयकाव्यपरम्परायां प्राचीनकाले केवलं साहित्यं न, अपि तु शिक्षायाः, धर्मस्य, समाजस्य, राजधर्मस्य, व्यक्तित्वविकासस्य च प्रमुखोपादानं बभूव। अतः प्रमुखेषु चम्पूकाव्येषु शिक्षाव्यवस्थायाः रूपं, प्रभावः, अपेक्षा, आदर्शाः च किं प्रकारं व्यक्ताः? इत्येतस्य समीक्षात्मकम् अध्ययनम् अस्मिन् लेखे क्रियते। भारतीयसाहित्यपरम्परायां नानाविधकाव्यरूपाणां विकसितिरसंशयेन विश्वसाहित्ये अपूर्वा दृश्यते। भातृहर्यादिभिः आरब्धा, कालिदासभोजवर्यादिभिः पोषिता, भवभूतिबाणभट्टप्रभृतिभिः विस्तारितेयं साहित्यपरम्परायां न केवलं कलात्मकबाहुल्यम्, अपि तु शास्त्रीयतत्त्वैः, शिक्षासंरचनाभिः, संस्कृतिसंस्कारबहुलैश्च चिरंजीविता। एतस्मिन् अध्ययनाम् प्राचीनप्रसिद्धानि चम्पूकाव्यानि नरसिंहचम्पू, रामायणचम्पू, एतानि सर्वाणि परीक्ष्य तत्र शिक्षाव्यवस्था, शिक्षाशास्त्रीयचिन्तनम्, आचारनीतिः, राजधर्मः, गुरुकुलजीवनम्, समाजव्यवस्था च कथं प्रतिफलति इति निरीक्ष्यते।

Author Biography

  • डॉ. बिकाशमण्डलः

    संस्कृतविभागः, पाण्डिच्चेरीविश्वविद्यालयः, पुदुच्चेरी

         

Downloads

Published

14-12-2025

How to Cite

शैक्षणिकदृष्ट्या चम्पूकाव्यस्य मूल्याङ्कनम्. (2025). Siddhanta’s International Journal of Advanced Research in Arts & Humanities, 171-177. https://sijarah.com/index.php/sijarah/article/view/223

Similar Articles

1-10 of 86

You may also start an advanced similarity search for this article.