महाभारते राजधर्मस्य मानवकल्याणस्य च विकाशः तथा प्रभावः
Keywords:
महाभारतम्, राजधर्मः, जनकल्याणं, शान्तिपर्वः, मनवजीवनम्।Abstract
भारतं महान् देशः अस्ति, अस्य प्राचीनता च समग्रविश्वे प्रसिद्धा अस्ति।महाभारतं प्राचीनभारतीयराजनीतिविचाराणां अध्ययनस्य एकं महत्त्वपूर्णं स्रोतः अस्ति। महाभारतस्य शान्तिपर्वे राजशास्त्रं, राजधर्मः (राज्ञः कर्तव्याः), शासनव्यवस्था, मन्त्रिपरिषद् तथा करव्यवस्था इत्यादिषु विषयेषु बहवः महत्त्वपूर्णाः विचाराः निहिताः सन्ति। तत्र राज्ञः कर्तव्याणि शासनस्य विविधांशाश्च विस्तरेण वर्णिताः सन्ति। अपि च राजसत्तायाः महत्त्वं प्रतिपाद्यः राजवंशस्य उत्पत्तेः विषये महत्त्वपूर्णाः सिद्धान्ताः स्थापिताः सन्ति। महाभारते शान्तिपर्वात् अतिरिक्तं सभापर्वणः पञ्चमे अध्याये आदर्शराज्यव्यवस्थायाः स्वरूपं वर्णितम् अस्ति। महाभारतम् प्राचीनभारतीयराजनीतिचिन्तनस्य विश्वे महत्त्वपूर्णं स्थानम् अस्ति। प्राचीनभारतीयचिन्तकाः धार्मिकञ्च, राजनीतिकञ्च, सांस्कृतिकञ्च, दार्शनिकञ्च तथा सामाजिकविषयेषु गभीरं चिन्तनम् अकुर्वन्। सहस्रवर्षपर्यन्तं गतस्यापि अनन्तरं तेषां चिन्तनानि अद्यापि राजनीतिक-धार्मिक-सामाजिकमार्गदर्शकरूपेण कार्यं कुर्वन्ति।
एतेषु प्राचीनभारतीयचिन्तकेषु कृष्णद्वैपायनवेदव्यासकृतं महाभारतम् अद्वितीयम् अस्ति। अतः एतत् “पञ्चमवेदः” इति नाम्ना प्रसिद्धम् अस्ति। मानवजीवनस्य आध्यात्मिकः, सामाजिकः, व्यवहारिकः, ऐतिहासिकः तथा राजनैतिकः एतेषु सर्वेषु क्षेत्रेषु यत्र जनकल्याणं कर्तव्यनिर्देशनं च दृश्यते, तेषां सर्वेषां तत्त्वानां विवेचनं महाभारते सर्वत्र विखण्डितरूपेण दृश्यते।
Downloads
Published
Issue
Section
License
Copyright (c) 2026 Siddhanta's International Journal of Advanced Research in Arts & Humanities

This work is licensed under a Creative Commons Attribution-NonCommercial-NoDerivatives 4.0 International License.