आधुनिकपरम्परायां जैनसिद्धान्तकौमुद्याः वैशिष्ट्यम्

Authors

  • धीरज दाश Author

Keywords:

जैनव्याकरणम्, पाणिनीयसुत्रम्, अर्थवोधः, प्रातिपादिकम्, कारकम्

Abstract

व्याकरणशास्त्रस्य ये मार्गाः प्रदर्शिताः सन्ति ते तु प्रतिस्थलं स्वीयं वैशिष्ट्यं समादाय परिपुष्टाः सन्ति । जैनसिद्धान्तकौमुद्यां पाणिनीयव्याकरणस्य यानि सूत्राणि विरचितानि सन्ति तानि अनुसृत्य सकलाः पद्धतयः अनुसृताः सन्ति । संज्ञाप्रकरणादारभ्य तद्धितप्रकरणं यावत् ग्रन्थेऽस्मिन् सर्वं विभिन्नैः सूत्रैः समलंकृतम् सन्ति । एतेषां विभागानां यदि वयं परिशीलनं कुर्मः तदा व्याकरणशास्त्रस्य सर्वाङ्गपूर्णं स्वरूपं प्रदर्शितं दृश्यते । अतः अनेन ग्रन्थमाध्यमेन जैनाचार्याणां गम्भीरव्याकरणपरम्परायां यः प्रवेशः वर्त्तते इति वयं स्पष्टीकर्त्तुं शक्नुमः । प्रसङ्गानुसारं वयमित्यपि वक्तुं शक्नुमः यत् यदा ग्रन्थस्य रचना भवति तदनन्तरं ये ग्रन्थाः विरचिताः भविष्यन्ति ते सर्वे आधुनिकाः इति कथयामः । अर्थात् जैनव्याकरणस्य रचनात्परं ये व्याकरणग्रन्थाः अस्माभिः परिदृष्टाः भवन्ति ते सर्वे आधुनिकाः सन्त्येव । अस्याः जैनसिद्धान्तकौमुद्याः अध्ययानात्परं छात्राः व्याकरणसूत्राणां लघुत्वमर्थगौरवं तर्कयुक्ततामतीतसन्दिग्धपक्षमनुभवन्ति । आधुनिककाले अयं ग्रन्थः स्वस्य सारगर्भसूत्राणामित्थं प्रतिपादनं कृतमस्ति येनोत्तरवैयाकरणाः तां पद्धतिमनुसृत्य नूतनान् ग्रन्थान् निर्मातुं प्रेरिताः भविष्यन्ति । भाषावैज्ञानिकदृष्ट्यापि अयं ग्रन्थः सर्वातिशायीति अनुभूयते । उदाहरणत्वेन ग्रन्थस्यास्य संज्ञाप्रकरणे अ आ इ ई उ ऊ ए ओ स्वराः1 इति सूत्रं दृष्ट्वैव प्रसीदति जनः एते स्वरवर्णाः इति साक्षादेव ज्ञातुं शक्नुवन्ति । परन्तु पाणिनीयपरम्परायां गुरुपरम्परामनुसृत्य येऽध्ययनं कुर्वन्ति ते केवलं तस्य ग्रन्थस्याभिज्ञानं कण्ठस्थं च कर्तुं शक्नुवन्ति । सूत्राणां कण्ठस्थं विना नैव कश्चित् वर्णपरम्पराज्ञानं समधिगच्छति । अतः अस्याः जैनसिद्धान्तकौमुद्याः अध्ययनेनाकस्मादेव विना गुरुं सूत्राणामर्थमवगन्तुं शक्नुवन्ति । अतः आधुनिकपरम्परायाम् एतस्य वैशिष्ट्यं प्रतिसत्रमनुभूयते ।

Author Biography

  • धीरज दाश

    शोधछात्रा, संस्कृतविभाग, महाराजा पूर्णचन्द्र भञ्जदेओ विश्वविद्यालय, ओडिशा 

Downloads

Published

16-12-2025

How to Cite

आधुनिकपरम्परायां जैनसिद्धान्तकौमुद्याः वैशिष्ट्यम्. (2025). Siddhanta’s International Journal of Advanced Research in Arts & Humanities, 83-87. https://sijarah.com/index.php/sijarah/article/view/211

Similar Articles

1-10 of 86

You may also start an advanced similarity search for this article.