वैदिकी वाक्

Authors

  • Dr. Nirmla Devi Author

Keywords:

वैदिकी, वाक्

Abstract

“वागेव विश्वा भुवनानि जज्ञे वाच इत्सर्वममृतं यच्च मत्र्यम्
अथेद्वाग् बुभुजे वागुवाच पुरुत्रा वाचो न पदं यच्च नाह।। 
व्युत्पत्ति: वच् धातोः परिभाषणार्थे क्विप् प्रत्यये सति दीर्घऽसम्प्रसारणात वाक् शब्दोऽयं निष्पन्नः। ‘वक्तीति वाक’ उच्यतेऽस©ऽनया वा, ’उच्यते यत् तद्वाक्यम्’ इत्येवमादिरूपेण शब्दध्वनिभाषाप्रभृतयः शाब्दिकार्थाः स्वीक्रियन्ते।
निरुक्तेऽस्य शब्दस्य निर्वचनं - “वाक् वचेः” इति कृतम्। वैदिकनिघण्टुसंग्रहे  तु अस्य सप्तपंचाशत् शब्दाः पर्यायत्वेन प्रोक्ताः। यथा - ।श्लोकः। धारा ।इडा। गौ। ।गौरी। गाान्धर्वी। गम्भीरा.... सरस्वती।वाक्। अनुष्टुपः। धेनुः। सुपर्णी। वेकुरा  इत्येवमादयः। अतः वाचः विविधरूपाणि सन्ति। कुत्रचिद् जगद्नियन्त्री, कुत्रचिद् ब्रह्म, कुत्रचिदग्निः कुत्रचिद् प्रजापतिः, कुत्रचिद् समुद्रेत्येवमादिरूपेण चित्रिता। वाचैव सृष्टिः संजाता इत्यपि साङ्गोपाङ्गेन वर्णितम्।
वाण्याः प्रशंसायां छान्दोग्योपनिषदि उच्यते यत् तां बिना धर्माधर्मसत्यासत्यानां नियमनं न संभवति। यथोक्तं - यद् वै वाङ्नाम विषयन्न धर्मोनाधर्मो व्यज्ञिायिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो ना हृदज्ञो वागेवै तत्सर्वं विज्ञापयन्ति, वाचमुपास्वेति। स यो वाचं ब्रह्मोत्युपास्ते यावद्वाचो गतं तत्रास्य यथा कामचारो भवति। 

Author Biography

  • Dr. Nirmla Devi

    Ass. Prof. - Sanskrit, G.G.J. Govt College, Hisar, Haryana

Downloads

Published

28-05-2026

Issue

Section

Articles

How to Cite

वैदिकी वाक्. (2026). Siddhanta’s International Journal of Advanced Research in Arts & Humanities, 38-52. https://sijarah.com/index.php/sijarah/article/view/285

Similar Articles

11-20 of 98

You may also start an advanced similarity search for this article.